वांछित मन्त्र चुनें

व॒चो॒विदं॒ वाच॑मुदी॒रय॑न्तीं॒ विश्वा॑भिर्धी॒भिरु॑प॒तिष्ठ॑मानाम् । दे॒वीं दे॒वेभ्य॒: पर्ये॒युषीं॒ गामा मा॑वृक्त॒ मर्त्यो॑ द॒भ्रचे॑ताः ॥

अंग्रेज़ी लिप्यंतरण

vacovidaṁ vācam udīrayantīṁ viśvābhir dhībhir upatiṣṭhamānām | devīṁ devebhyaḥ pary eyuṣīṁ gām ā māvṛkta martyo dabhracetāḥ ||

पद पाठ

व॒चः॒ऽविद॑म् । वाच॑म् । उ॒त्ऽई॒रय॑न्तीम् । विश्वा॑भिः । धी॒भिः । उ॒प॒ऽतिष्ठ॑मानाम् । दे॒वीम् । दे॒वेभ्यः॑ । परि॑ । आ॒ऽई॒युषी॑म् । गाम् । आ । मा॒ । अ॒वृ॒क्त॒ । मर्त्यः॑ । द॒भ्रऽचे॑ताः ॥ ८.१०१.१६

ऋग्वेद » मण्डल:8» सूक्त:101» मन्त्र:16 | अष्टक:6» अध्याय:7» वर्ग:8» मन्त्र:6 | मण्डल:8» अनुवाक:10» मन्त्र:16